इस ख़बर को शेयर करें:
श्रीकृष्ण वरदाष्टकम्
परमानन्दसर्वस्वं पाशुपाल्यपरिष्कृतं चिरमास्वादयन्ती मे जृम्यतां चेतसिस्थितिः । (चेतस)
दूरदूरमुपारुह्य पततामपि चान्तरा सकृदाक्रन्दनेनैव वरदः करदो भवेत् ॥ १॥
मम चेतसि माद्यतो मुरारेः मधुरस्मेरमुपाध्वमाननेन्दुम् ।
कमनीयतनोः कटाक्षलक्ष्मीं कन्ययापि (कलयापि) प्रणतेनु(षु) कामधेनोः ॥ २॥
वरदस्य वयं कटाक्षलक्ष्मीं वरयामः परमेण चापलेन ।
सकृदप्युपगम्य सम्मुखं सहसा वर्षति योषितोऽपि कामम् ॥ ३॥
जृम्भतां वो हृदये ? ? जगत्त्त्रयीसुन्दराः कटाक्षभराः ।
अम्भोदान् गगनचरानाह्वयमानस्य बालस्य ॥ ४॥
जृम्भन्तां वः करिगिरिजुषः कटाक्षच्छटा विभोर्मनसि ।
अम्भोधरमधःकृत्वा हषान् (हर्षात्स्वै) स्वरं शयानस्य ॥ ५॥
ब्रजजनवनितामदान्धकेलि-कलहकटाक्षावलक्षविभ्रमो वः ।
विहरतु हृदये विलाससिन्धु- र्मुहुरबिलङ्गितमुग्धशैशवश्रीः ॥ ६॥
वरवितरणकेलिधन्यधन्या मधुरतराः करुणाकटाक्षलक्ष्म्याः ।
करिगिरिसुकृताङ्कुरस्य कस्या-भिनववारिवहस्य विभ्रतां वः ॥ ७॥
इत्यष्टकं पुष्टरसानुबन्धं विनोदगोष्ठीसमये वियुङ्क्ताम् ।
व्रजाङ्गनानां कुचयोः करीन्द्र- शैलस्य मौलौ च मुहुर्विहर्ता ॥ ८॥
श्रीकृष्णलीलाशुकवाङ्मयीभि-रेवंविधाभिर्विबुधाहताभिः ।
पुष्णन्तु धन्याः पुनरुक्तहर्ष-मायूंषि पीयूषतरङ्गिणीभिः ॥ ९॥
इति कृष्णलीलाशुकमहाकविमुनिविरचितं श्रीकृष्णवरदाष्टकं सम्पूर्णम् ।